देवगीतम्
देवगीतम्1. वाणी पञ्चकम्
शुभाकारा हारावलि- सितिम-धारा परिसरत् प्रभाभारासार-प्रथमित-महामोहनिचया । कृपापारावारा-पटुतरमुदारा परतरा । सदाधारा वाणी बुध जन निषेव्या विजयते ।। महामोह व्यूह-प्रथमित-संजात जनुषा समञ्चास्तव्यस्तं ननु विदधता घोरतमसा ।। समाच्छन्नं स्वान्तं द्रुततरमियं ध्वान्तरहितम् विद्ध्याद् वाणी में मिहिर इव सम्भिन्नकमलः । सदा तन्त्री-तन्त्र-प्रचलकर-शाखा-नखचय-। प्रभाभी रक्ताभां स्फटिकमणिमालां विदधतीम् ।। विधेः पारेप्रज्ञं जगदपरमेकं नवरसम् वितन्वानां वाणीं सततमिह वन्देब्ज निलयाम् । स्फुरत्कान्ति व्याज-क्षरिभिरिव शस्त्राब्त्र निवहैः । महाजन्येन्योन्यं सबलमपि भस्मीकृतवताम् ।। नृपाणामद्यापि प्रकटनपरां कीर्ति विततेः। स्तुमावीणापाणि श्रुतिविदित्वाणीमभयदाम् कृपापुरोद्भूता तनुतरतरंगावलि लसत् विशालापाङ्गान्तः स्फुरणलवमासाद्ययदलम अधिस्वान्तं पश्यन् करवदरवद वस्तु निखिलम् कविः काव्य श्रेष्ठं विरचयति वाणीं नमत ताम् ।।5
2.भारती -वन्दना
हे भारति ! त्वदीयं चरणं सदा भजेयम् । मातस्तव प्रसादान्मोह परिन्जेयम् । हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।1।। सीधारवेण वीणा सद् वादन प्रवीण एकमादि दोषहीनं मन्मानसं विधेयम् हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।2।। शुक्लाम्बरावृतायाः मुक्ताल्लसच्छटायाः । स्वेताम्बु स्थितायाः रूपं तवाम्बु धेयम् हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।3।। अज्ञानता निशेयम् जाता समाधिचेतः सद्ज्ञानदीप दानं सद्यस्त्वया विधेयम् हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।4।। सुरवृन्द वन्दितायाः कविभिश्चपूजितायाः मात्तयशतवेदं “देवेन” किं न गेयम् हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।5।।
3.मातृभूमि वन्दना हे धातृ! मातृभूमे! त्वां सादरं नमामः । सत्पाद पंकजं ते शिरसा सदा वहामः हे धातृ! मातृभूमे! त्वां सादरं नमामः । रत्नांशु मण्डितोयं मुकुटं हिमालयस्ते दिव्यं तवाम्बरूपं मनसा सदा स्मरामः हे धातृ! मातृभूमे! त्वां सादरं नमामः । गंगा सिताम्बूपूरै रसितैः कलिन्द जायाः प्रक्षालितं तवाङ्घिं सततं समचयि मः हे धातृ! मातृभूमे! त्वां सादरं नमामः । शीतांसु रश्मिगौरं विमलं यशस्त्वदीयं दिक्षु प्रसारयनतो विद्या वयं पठामः ।। हे धातृ! मातृभूमे! त्वां सादरं नमामः ।
4.प्रार्थना शक्तिः सा देया दयानिधे ! कर्तव्य पथे संस्थातब्यम् । परसेवा परहित साधनतः सफलम् स्वजन्म निर्मातव्यम् । शक्तिः सा देया दयानिधे ! वयमेषां दुर्बल दीनानां सेवातस्यापहरा स्यामः ये तावदितस्तत आभ्रमन्ति दुखं तेषामपह वियम् शक्तिः सा देया दयानिधे ! रिपवः कामादय इमे दयामय ! नश्चेलो व्यथयन्ति सदा । करुणातरंग ततिभिस्तेषामन्मूलनमाशु विधातब्यम् शक्तिः सा देया दयानिधे ! निज देश जाति धयीदिषु सद् व्यथितं स्याज्जीवनमेतदलम् । करुणावरुणालय ज्ञान बलं विपुलं परमेश निधातब्यम् । शक्तिः सा देया दयानिधे ! सफलं करुणामय देवगवी समपामनमस्तृतमामचिरम् सुन्दर षन्मन्तेवसतां सत्यम् शिवमीश विधातब्यम् शक्तिः सा देया दयानिधे ! कर्तव्य पथे संस्थातब्यम् ।
5. स्वागत गानम् समायाताः भवन्तस्तद् वयं वः स्वागतं कुर्मः ततो भवतामुदाराणां वयं वः स्वागतं कुर्मः । यथायाते वसन्ते संन्लसन्ते पल्लवैस्तरवः तथा प्रीतिर्निदानां वयं वः स्वागतम् कुर्मः समायाताः भवन्तस्तद् वयं वः स्वागतं कुर्मः सदा सम्पद् पदानामापदामुत्साद शीलानाम् गुणाली सन्निधानानां वयं वः स्वागतं कुर्मः समायाताः भवन्तस्तद् वयं वः स्वागतं कुर्मः प्रचारो देव भाषायाः मतो एषां मते शश्वत् सतामाशावितानानां वयं वः स्वागतम् कुर्मः ।
6. अयि! भवत्सवागते स्वागतं जीवनम् यन्नवं तन्न वक्तुं गिरा शक्यते । या वसन्तागमे भुरुहामुन्नतिः सा कथञ्चिन्नवक्तुं गिरा शक्यते । अयि! भवत्सवागते.................. दर्शनादेव चन्द्रस्य चकोरकम् यां मुदं सम्बहत्यादृतं मानसे सा समासादितागाध प्रज्ञाभरैरप्यहो नैव वक्तुं गिरा शक्यते । अयि! भवत्सवागते.................... यस्य पाथोज खण्ड मिलन्मीलनं चक्र वावश्च वाथामिनी निर्गमे । हर्ष वर्ष बहत्वा गतेऽहस्करे सोऽपि किं साधुवक्तुं गिराशक्यते । अयि! भवत्सवागते.................... शुभ्र वेल्लद् वलाकां घनश्यामलां मेघमालां विलोक्याशु केकारवैः । स्वागतं यन्मयूराः मुदा कुर्वते तत्कथञ्चिन्नवक्तुं गिरा शक्यते । अयि! भवत्सवागते............... सद् गुणालंकृतैराप्त सम्मानितैः सद्यशोराशि पूरोल्लसद् सागरैः । या कृपाकारि विद्वद्वरैः साम्प्रतमं सा न “देवेन” वक्तुं गिरा शक्यते ।। अयि! भवत्सवागते................ 7. प्राच्य विद्याविनीतः सुधी समतोयश्च पाश्चात्य भाषा समुद्भ सितः यच्चरित्रं सदा स्यादनादीनवं तस्य ते स्वागतं स्वागतं स्वागतं ।।1 यश्च वाचाऽतिमाद्र सदालङ्कृतो यश्च लक्ष्म्या समालिङ्गितः सादरम् । गवलेशावहीन च यन्मानस तस्य ते स्वागतम् स्वागतम् स्वागतम् ।।2 यः सदा सप्रयाशः प्रजारंजने तत्परो यश्च दुष्टावली भञ्चने । यः स्वभावादहो सज्जनानन्दनः तस्ये ते स्वागतम् स्वागतम् स्वागतम् । यस्य सत्कर्म सम्पादने दक्षता पक्षता साधु वर्गे च संलक्ष्यते । अक्षतः यस्य कार्ये मतिः दृश्यते तस्य ते स्वागतं स्वागतं स्वागतं । प्रेम पूराञ्चितं यस्य सन्मानसं यस्य जीवानुकम्पा परा दृश्यते । यस्य लोकोपकारे रतिः सर्वदा तस्य ते स्वागतं स्वागतं स्वागतं ।
8. वन्दनीय एष सर्व देहिनामये स्वामिनं प्रभाविनं उदारमाश्रये ।1 यस्य चात्मनि प्रतिक्षणं मतीरता योगतः समागतः प्रपञ्च पारता देह सारता न यस्य योगिना नये स्वामिनं प्रभाविनं उदारमाश्रये ।2 येन दर्शिता मिता स्वधर्मशीलता शिक्षिता मुहुर्मुहुः स्वकर्मशीलता । शमशीलता मता च यत्तषश्चये स्वामिनं प्रभाविनं उदारमाश्रये ।3 यः समागतस्य सःनतस्य भक्तितो दुर्हृदो हिनस्ति तत्क्षणां स्वशक्तितः । कामक्रोध लोभ मोह मत्सरानये स्वामिनं प्रभाविनं उदारमाश्रये ।4 वेदशास्त्र दर्शन स्फुर द्विलाशया यस्य रागिता समन्नु देव भाषया । “देव” एष तंत्र सन्नता दयामये स्वामिनं प्रभाविनं उदारमाश्रये ।1
9. काव्याली यन्तपो भाभिराभी रसायास्तलम् राजते राजता लङ्कृतम् सर्वतः योगिभिः पूजितो योगिना यो गुरुः योगिवय्ययि तस्मै नमः स्वामिने । यद्यशोराशिराशासु संचारतो ध्वान्त मे कान्ततोऽस्तं नयन्तया ततं । पोषको यः सतामन्तकश्चासताम् योगिवर्याय तस्मै नमः स्वामिने । यो जनानां भ्रमन्नेनसां सन्ततिम् दूरयत्याशु संदशनेनात्मनः वाचि यस्यामृत दृश्यते वस्तुता योगिवर्याय तस्मै नमः स्वामिने । यो गतः पारमस्य प्रपञ्चात्मना वस्तुतत्वम् विजानन्नथाप्यात्मनः कर्मशीलश्च जीवोपकाराय यो योगिवर्याय तस्मै नमः स्वामिने । देवभावामये यस्य विद्यालये वेद वेदांग शिक्षा रसेल्लासिता छात्रमाला विशाला चिरं राजते योगिवर्याय तस्मै नमः स्वामिने ।।
10. अये स्वामिन् ! अये स्वामिन् ! मतिः सा शोभना देया । दयातस्ते दयासिन्धो ! मया सद्भावना हेया ।। अये स्वामिन् !........................1 यदा लोकेन लोकोऽयं सशंको जायते क्वापि । विशोके केवलै तस्मिन् कथंचित् कामना देया । अये स्वामिन् !........................2 अमी कामादयः कामं मनो मे पीडयन्नीव तति तेषामितो मन्मानसादति दूरमपनेया । अये स्वामिन् !.......................3 न विद्या नो बलं भक्तिः न श्रद्धा व समीचीना नवीना कीर्तिरनवद्या कथंकारं मया ज्ञेया ।। अये स्वामिन् !.......................4 भवाकूपार मध्येपार पापाचार सं भारा निमज्जन्ती तरिस्तावन्मदीया पारमानेया । अये स्वामिन् ! अये स्वामिन् ! मतिः सा शोभना देया ।
भज रे स्वामिचरणमभिरामम् । विकच कमलदल ललित मधुपगण- चुम्बन चरणविरामम् । भज रे ! स्वामिचरणमभिरामम् । जनरंजनमति मञ्जुलमभिमत-सन्दायिनम् निकामम् । भज रे ! स्वामिचरणमभिरामम् । अद्यदल दलन मरुण नख किरणै-राभासित मविरामम् । भज रे ! स्वामिचरणमभिरामम् । अशरण शरणम् भय मवितारम् देवगिरामविरामम् । भज रे ! स्वामिचरणमभिरामम् ।
11. तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा । लतालास्य लीला लसन्मञ्जुशीला विलुप्त प्रमीला गलल्ली भली स्वयं राजते भूत ले भव्य वेषा । तपो भूमिरेषा........................ सुमैराल्सद्भिः फलंरानमद्भिः । प्रियं वा ददद्भिः सुखं वा दधद्भिः । द्रुमैः कल्पवृक्षोपमं च्छन्नदेशा । तपो भूमिरेषा जना ये श्रयन्ते सुखं ते लभन्ते । चिरन्ते रमन्ते न तापं सहन्ते । शुभा निर्मल देवभाषा विशेषा । तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा । 12. वीरता शालिनो भारतीय अये ! देशसेवा विधेया सदा सादरं यत्र भीमादयो लेभिरे जन्मरे यत्र कर्णादयो दानशीला अहो तत्पथे विश्रुतेऽस्मिन भवद्भिर्मुदा पादपंक्तिर्निधेया सदा सादरम् । वीरता शालिनो........................ यत्र राणाप्रतापः शिवाजी तथा नीतवन्ता वलं यावनम् संक्षयम् । तस्य वीरद्वयस्याकृतिः शोभना नो कथञ्चिद् विधेया सदा सादरम् वीरता शालिनो............................... देश स्वातंत्र्य संग्राम दन्तासवो वीर वर्याश्च ये निर्भया संततम् प्रेमपूता च तेषाम् कथा निर्मला देवगीतेन गेया सदा सादरम् वीरता शालिनो भारतीय अये ! देशसेवा विधेया सदा सादरं 13. देश हेतवे प्रियम् वरन्नु यौवनम् वाञ्छितम् मनोरमं नवन्नु यौवनम्। मातृभूमि रक्षणे भवन्तु सक्षणाः शत्रु तक्षणा विलक्षणा विचक्षणा अर्पयन्तु सादरम् स्वयन्नु यौवनम् वाञ्छितम्....................... शस्त्र सज्जिता रूषा दया विवर्जिता स्तर्जितारयोश्वेण साधु वर्धिताः भासयन्तु वीरता स्फुरत स्वयौवनम् वञ्छितम्................................ द्रोह भावना मिथो विहाय सत्वर दर्शयन्त पौरुष निजं विकस्वरम् अर्जयन्तु निर्मलं यशस्च भौवनम् वाञ्छितं....... स्वर्ग सौरव्य दायिनी सदा सदादृतां प्राण दानतोऽपि रक्षत स्वतंत्रताम् देवगानतो विवर्धतान्नु यौवनम् वाञ्छितम् मनोरमं नवन्नु यौवनम् । 14 देश स्वातन्त्रय संग्राम दत्तासवो, माननीय इमे पूजनीया इमे । देश भक्ताः ससक्ताः प्रदत्तासवो, माननीया इमे पूजनीया इमे । ददशां मातृभूमेः समालोक्य ये सत्वरं तम्बरं यत्नमारेभिरे । वीक्ष्य येषां बलं कम्पते वासवो, माननीया इमे पूजनीया इमे । यच्चरित्रं पवित्रं धत्रीलीतले, गीयते यच्च सन्नन्दने कानने । सामरन्तीह तेषां न केशासवो, माननीया इमे पूजनीया इमे बालकाः वथ वृद्धाः युवानस्तथा, सर्व एवा चरन्ति प्रणामं सदा एष तेषां कृते वर्धतामुत्सवो, माननीया........................
15. काव्याली दत्तवन्तो निजासून स्वदेशाय ये, वीर्यवर्या अलम् ते स्तुता वा न वा । निर्जितारातयाश्चान्त कश्यान्तकास्ते सगर्वम्, भवद्भिः स्मृता वा न वा । दत्तवन्तो................... मातृभूमेः दृढां वन्धनीं श्रृंखलां मंक्तुकामा निकामं परार्थव्रताः । सयता वस्तुतो जीवने निस्पृहाः, सस्पृहा हन्त सम्पूजिता वा न वा । दत्तवन्तो........... वीरता कामिनी रभ्य सीमन्तके, रक्त सिन्दूर दानोच्छलत् साहसाः देश प्रेमातिरेकाल्लसन्मानसा, मानसे सन्ततम् स कृता वा न वा । दत्तवन्तो.......................................... मस्तकम् न्यास्य हस्ते हसन्तोऽनशम्, निर्भयम् यत्र तत्र भ्रमन्तः सदा । तापयन्तो मनः शास्त्रवम् भूतले कर्मणादेव यूयम् गता वा न वा । दत्तवन्तो............................. परमहंस भव्या श्रमे पावने, निर्मिता धेव भाषानि बाद्धाऽमला । देवगीतिर्नवा तद्यशो वर्धिनी, सादरम् शक्तिसारा श्रुता वा न वा । दत्तवन्तो निजासून्...................................................
काव्याली दर्शिता साम्प्रतम् यादृशः सद्दया, यादृशीमेव सद्भ्यो मुहुः कामये छात्र वर्गेनुकम्पा कृता यादृशी तां भवद्भो मुहुः कामये दर्शिता साम्प्रतम्...................... वागियम् बालकानां भृशं नीरसा, सापि विद्वद्बरैः सादरं स्वीकृता स्वीकृता स्यात् पुनः प्रस्तुतः चेद् भवेदत्र ध्यानं ददभ्यो मुहः कामये । दर्शिता साम्प्रतम्...................... प्रेम वल्ली हृदाराम संवर्धिता, तत्प्रसूनैः रसल्लासिता गुम्फिता । तामजस्रम स्रजम् स्नेह संवर्धिनी, कण्ठदेशे दधद्भ्यां मुहुः कामये । दर्शिता साम्प्रतम् श्रीमतां दशनाद्धर्षवर्षोंऽभवत्, कार्य सिद्धिः समासादिता वस्तुतः । आशिषः सन्तु भूयोऽपि शुद्धात्मनाम्, देवभाषा लसद्भ्या मुहुः कामये । दर्शिता साम्प्रतम्........................... गारी राग अति सरला संस्कृत भाषा त्वया पठनीया अरे! अति मधुरा संस्कृत भाषा त्वया वदनीया अरे । कालिदास कवि भासप्रसूतिः उल्लासित भारविर्भवभूतिः । इयमेषा त्वयादरणीया दरणीया अरे ! अति सरला संस्कृत परमहंस कृपया गतमीलम् विद्यालय इह चलति सलीलम् तस्य कीर्तिस्त्वया कथनीया अरे ! अति सरला संस्कृत.. गुरुजन वृन्द शुभा सन्देशा (नाम यथेच्छं संयोजनीयम्) त्वया कण्ठस्थीकरणीया करणीया अरे ! अति सरला संस्कृत भाषा.. देव कवेरिदमुत्तम गानं श्रुत्वा कुरु कविता रस पानम् लभ्या कीर्तिस्त्वया कमनीय कमनीय अरे । अति सरला संस्कृत गारी राग कथमेषा त्वया नाधीता नाधीता अरे ! प्राचीना अति संस्कृत भाषा रुचिरा सरला सुपुनीता परमहंस संस्कृत विद्यालय कीर्ति रियम् अति स्फीता अति स्फीता अरे ! कथमेषा................................. कालिदास कवि मधुरा कविता किमिव त्वया नो पीता नो पीता अरे कथमेषा. परमहंस परवा कृपयारे सश्रममद्योन्नीता उन्नीता अरे कथमेषा.............. देवकवेरति सरसागीतिः मया मधुरा मधुरा गीता अरे गीता अरे कथमेषा त्वया ना धीता ना धीता अरे । गारी राग पठ पठ सज्जन संस्कृत भाषां रे, रचिरामयो सुकुमारां सीतारामौ भज । निगमागम पुराण परिपीनाँ रे, स्मृतिकृत विविधविचारां सीतारामौ भज । पठ पठ सज्जन.... मसृण मृदुल मञ्जुल मधु वहनी रे विधृत सुधारस धारां सीतारामौ भज । पठ पठ सज्जन...... त्वँ पठ वत पत्नीमपि पाठय रे त्वम् पठ वत भगिनीमपि पाठय रे कुरु जगतीं सुख सारां ,सीतारामौ भज.................................... पठ पठ सज्जन...... देव कवेरमृतोपम गानं गाय गाय कुरु सुप्राचाराँ सीतारामौ भज । पठ पठ सज्जन....................... परमहंस परया कृपा रे (नाम यथेच्छ योजनीयम्) कुरु कुरु बहुल प्रसारां सीतारामौ भज । पठ पठ सज्जन.................................. गारी राग पठसि पठसि किमसारामन्यां भाषाँ रे । पठसि न संस्कृत भाषामुत्तमासा रे................... वेद पुराण विवसंदति हाँसा रे , गीतासमानीतामित रुचिर प्रकाशा रे..... पठसि पठसि........................ कालिदास भास कवि विविध विलासा रे पठसि पठसि.............................. देव रचित नूतन गीति परिभाषा रे गाते जयदेव राम कलित सुहासा रे । पठसि पठसि ....................... गारी राग लगति न मम मन इतरासु भाषासु, संस्कृत भाषाँ प्रति याति रे ललनाः भाषायाम स्यामधिक रस कविता रे रुचिततमा सा प्रति भाति रे ललना लगति न मम..................... श्री परमहंस चरणरजः कृपया रे रुचिर प्रसारा सा विभाति रे ललनाः लगति न मम् भामिनि यदि कलयसि सुरभाषा रे तवमुख सुषमानमाति रे ललना लगति देव कवेरियम् लौकिक गीती रे, सरला ललिता सरसाति रे ललनाः लगति न मन मम मनः.................................. गारी राग अतिशय भाग्यमहो तव मानव यदिह पठसि सुरभाषां सखे जीव ब्रजति पठति यस्तु सासुः ससुरतां यो न पठति ससुरारिः सखी जीव अनुया प्रसीदति त्वयि असुरारिः जनो विदधाति यदाशां सखे जीव श्रीपरमहंस चरणरज कृपया रे भुविकृत रुचिर विकासां गुरुजन वृन्द परम कृपया रे भुवि कृत देव कवेरिमांमुत्तम गीतिं रे पठ परिकलित सुहासां सखे जीव अतिशय भाग्यमहो गारी राग जनता सुख शान्ति निधाना वन्दनीयेन्दिरा गुणग्रामाञ्चिता चासमाना वन्दनीयेन्दिरा राजनीनि निपुणाः मतिधीरा देशकालकलना गम्भीरा कुत विद्वज्जन सम्माना वन्दनीयेन्दिरा चरणीवाछपयति प्रतिपक्षं मामेवायति या निजपक्षम् देशोन्नयने सावधाना वन्दनीयेन्दिरा मध्यस्था स्वस्था गतिशीला, शक्तित्रय संचय गत मीला अहो विहितारति विमाना वन्दनीयेन्दिरा देवकवी रचयति मृदुगीतिम् अधिजनमान समाहित प्रीतिं इयमातत कीर्तिविताना वन्दनीयेन्दिरा ।
गारी राग काशीतः जडिता आयातः काशीतः । रामदत्तानुजायाः अग्रम् जडति पृष्ठन् जडति मदनि जडति वत्तासातः काशीतः । काशीतः जडिता0...............................1 । रामदत्त मातुः अग्रय जडति पृष्ठम् जडति । 2 । मदनी जडति वतासीत काशीतः ...................................... काशीतः........................... यज्ञदत्त पितृस्वसुः अग्रम् जडति पृष्ठम् जडति..... वराङ्गम् जडति वतासातः काशीतः । काशीतः..............................2 यज्ञदत्त पितृस्वसुः अग्रम जडति ........ ......................................... काशीतः जडिता आयात काशीतः ।
गारी राग अत्राश्रमे पाठशाला रे मित्र चल संस्कृत भाषा प्रचारे चल । अस्या भवनावली विशाला रे मित्र चल संस्कृत भाषा प्रचारे चल । इहाध्यक्षा अमेठी भूपाला रे मित्र0...............................। इहा रुचिरा यज्ञशाला रे मित्र.............................................। इहा महती गोशाला रे मित्र.............................................। इह वनराजि सतमाला रे मित्र.............................................। इह सन्तः धर्मपाला रे मित्र.................................................। इह मुनयो घृतमाला रे मित्र................................................। इयं देव कवेः गीती रसाला रे मित्र चल संस्कृत भाषा प्रचारे चल ।
कहरवा राग लोके एष दर्शनीयः परमहंस – आश्रमः । राज्यामेठी मध्यगतोsयम् टीकरमाफी ग्रामः ब्राह्मण क्षत्रिय वैश्य जनानामपिववासैरभिरामः तस्य नातिदूरवर्ती पूजनीय आश्रमः लोक एष दर्शनीय........................................। परमहंस चरणाति करुणया त्रैका संस्कृतशाला चलति यत्र छात्राणामवली रम्या लसति विशाला देव भाषा विज्जनाभिनन्दनीयआश्रमः लोके एष.........................................................................। फाल्गुनशुक्ल त्रयोदश्यामिह महायज्ञ सम्भारः यतः सनातन धर्मि जनानां नित्यं सुख संचारः । कर्मयोगिवर्य्यवृन्द वन्दनीय आश्रमः । लोके एष दर्शनीय देवकवी रचयति अति गीतम् लौकिक महो विशुद्धम् श्री जयदेव त्रिपाठी गायति मधुरम् सुस्वर विद्धम् भावविद्भिर्बुद्धिमश्रि वर्णनीय आश्रमः । लोके एष दर्शनीय
लोके एष दर्शनीयः सच्चा बाबा – आश्रमः । एकत एति सिताम्बुपूरिता जह्नुसुता गतमीलम् कलिन्दजा चान्यति इति जातः संगम एव सलीलम् तस्य नातिदूरवर्ती पूजनीय आश्रमः लोक एष दर्शनीय........................................। सच्चा बाबा परम करुणया त्रैका संस्कृतशाला चलति यत्र छात्राणामवली रम्या लसति विशाला देव भाषा विज्जनाभिनन्दनीयआश्रमः लोके एष.........................................................................। विद्वद्वृन्द परम कृपयात्रात्यन्तं इषिं विहीनः संस्कृत युवक समारोः प्रतिवर्ष भवति नवीनः कर्मयोगिवर्य्यवृन्द वन्दनीय आश्रमः । लोके एष दर्शनीय देवकवी रचयति अति गीतम् लौकिक महो विशुद्धम् श्री जयदेव त्रिपाठी गायति मधुरम् सुस्वर विद्धम् भावविद्भिर्बुद्धिमश्रि वर्णनीय आश्रमः । लोके एष दर्शनीय..............
काममेषा किं नाधीता संस्कृत भाषा बान्धवाः यत्र श्रुति मान्वादि स्मृतिं शास्त्राणां विविध वितानम् ज्योति कर्मकाण्ड दर्शन विद्यानाममित निधानम् यस्यामस्या प्रसिद्धां भगवद्गीता बान्धवाः काम मेषा किं. परमहंस संस्कृत विद्यालय इह किलविल सत्येषः ब्राह्मण क्षत्रिय वैश्य शूद्र यवनानामपि प्रवेशः किं भवद्भिवलिका न समानोता वान्धवाः काम मेषा किं......
बाण मयूर दण्डि विनिद्धम् यत्राद्भुत विज्ञानम् जयदेव श्रीहर्ष कवित्वं विश्वस्मिन्न समानम् कालिदास मास कविता किं न पीता बान्धवाः । काम मेषा किं देव कवी रचयति मृदुगीतम् लौकिक महो विशुद्धम् श्री जयदेव त्रिपाठी गायति ललितम् सुस्वर बद्धम् अश्रुत पूर्वा सैषा गीतिः किं न गीता बान्धवाः काम मेषा किं न गी
कहरवा राग एक एव केवलम् स हे मनस्तवाश्रयः भ्रमसीतस्तत आशाग्रस्तं भव जलनिधि दुस्तारे माया रचिते रमसे व्यर्थ नश्वर निज परिवारे सेवनीय एष सर्वदा विभु निराश्रयः एक एव काञ्चन वनिता वाप्ति समीहा न हि शाम्यति संसारे यावज्जीवं भवसि निगडितम् विकटे मोहागारे नैन ध्याता किं कदाप्यहो सवै सदाश्रयः एक एव गायन्ति श्रुतयः स्मृतयस्तम् उशनिषदप्याख्याति सेवा विरतम् योगि जनानाम् अधिमानसमाभाति नैव वस्तुतस्ततोमता सखे सुखाश्रया एक एव देवकवी रचयति मृदुगीतम् लौकिक महोविशुद्धम् श्री जयदेव त्रिपाठी गायति मधुरम् सुस्वर वद्धम् सर्व एष स्थूलं सूक्ष्म संचयो यदाश्रया एक एव रुचिरा नभति पयोधर माला रचति विशाला रे हरे गर्जति चलति घनाघन माला वलति वलाकवली रसाला अनुपलमेधत ए, मनसि मनोभव ज्वाला रे हरे रुचिरा नभति पयोधर दिशि-दिशि कल कोकिल कुल गानम् मधुरं भवति मयूरध्वानम् चपला मानस कम्पन शीला स्फुरति कराला रे हरे रुचिरा नभति पयोधर................................... शीतल मन्द सुगन्ध समीरः वाति वियोगी भवति अधीरः केकी नृत्यति कानन भूमिः कलित तमाला रे हरे................................... रुचिर नभसि देव कवेरति मञ्जुल गानम् बुधजन मानस हर्ष निधानम् अरे त्वया किमिति न भामिनि रसिता कविता हाला रे हरे रुचिरा नभसि पयोधर माला लसति विशाला रे हरे
कजली
भ्रातस्यत्वम् पठ संस्कृत भाषाम् आसां भाषाणां जननी हिन्दी उर्दू अरबी पाश्तो आँग्ल फ्रेंच जर्मनी शस्तो मलयालम कन्नड़ तेलगू गत मूल शब्द ध्वनिनीम् भ्रातस्यत्वम् पठ……….. वेद पुराण स्मृति परिधानां रामायण गीता सुनिधानां विविधोपनिषल्लस दुवदेशैः शोक मोह शमनीं । भ्रातस्यत्वम् पठ.................. कालिदास कवि भास प्रसूतिं उत्पादित भारवि भवभूतिम् वाण मयूर हर्ष बुध तल्लज दण्डि प्रसविनीं भ्रातस्यत्वम् पठ................ देवकवेदरिमुत्तमगानम् कलव मधुर कविता रसपानम् सपदि सकलमवनीतलमातनु सुबनीं माघवनीं । भ्रातस्यत्वम् पठ..
राग चौताल यायि जमुना जलाय नवीना मदन मद पीना
बेलवरिया शिवममुष्य तनोतु दिने-दिने गजमुखः सुमुखः ससुतो रविर्द्विजपतिश्च कुजश्च बुधोगुरुः भृगुज केतु मुतश्च विधुन्तुदः शिवममुष्य तनोतु दिने-दिने कमल कोश गतश्च बृषासनः पतग पृष्ठ गतश्च गजासनः सुरयुतः सुहुतश्च हुतासनः शिवममुष्य तनोतु दिने-दिने जलधिजा गिरिजा वृषभानुजा धरणिमखजा च पुलोमजा सरसिजासन जापि च भीम जा शिवममुष्य तनोतु दिने-दिने विधिसुतः सवगाधिसुतः शुकः कलश्जश्च भृगुश्च सजैभिनी गुरु वशिष्ठ युतश्च भागीरथो यदुरथो नहुषश्च वृहद्रथः सगुरु सानुज पार्थ महारथः शिवममुष्य तनोतु दिने-दिने सुरनदी यमुना च सरस्वती शुभजला सरयू च शशिप्रभा ललित में कलजा च कोशला शिवममुष्य तनोतु दिने-दिने शिवपुरी मथुरा मिथिला गया वदरिका विदिशाप्यथ कौशिका हरिपुरी निमिषापि च कोशला शिवममुष्य तनोतु दिने-दिने सबलमंगल दायकमष्टवम विरचितं द्विजदेव मनीषिणा पठति अस्तु श्रृणोति समाहितः सलसतीह चिरं शुभ सम्पदा
1. वाणी पञ्चकम्
शुभाकारा हारावलि- सितिम-धारा परिसरत्
प्रभाभारासार-प्रथमित-महामोहनिचया ।
कृपापारावारा-पटुतरमुदारा परतरा ।
सदाधारा वाणी बुध जन निषेव्या विजयते ।।
महामोह व्यूह-प्रथमित-संजात जनुषा
समञ्चास्तव्यस्तं ननु विदधता घोरतमसा ।।
समाच्छन्नं स्वान्तं द्रुततरमियं ध्वान्तरहितम्
विद्ध्याद् वाणी में मिहिर इव सम्भिन्नकमलः ।
सदा तन्त्री-तन्त्र-प्रचलकर-शाखा-नखचय-।
प्रभाभी रक्ताभां स्फटिकमणिमालां विदधतीम् ।।
विधेः पारेप्रज्ञं जगदपरमेकं नवरसम्
वितन्वानां वाणीं सततमिह वन्देब्ज निलयाम् ।
स्फुरत्कान्ति व्याज-क्षरिभिरिव शस्त्राब्त्र निवहैः ।
महाजन्येन्योन्यं सबलमपि भस्मीकृतवताम् ।।
नृपाणामद्यापि प्रकटनपरां कीर्ति विततेः।
स्तुमावीणापाणि श्रुतिविदित्वाणीमभयदाम्
कृपापुरोद्भूता तनुतरतरंगावलि लसत्
विशालापाङ्गान्तः स्फुरणलवमासाद्ययदलम
अधिस्वान्तं पश्यन् करवदरवद वस्तु निखिलम्
कविः काव्य श्रेष्ठं विरचयति वाणीं नमत ताम् ।।5
2.भारती -वन्दना
हे भारति ! त्वदीयं चरणं सदा भजेयम् ।
मातस्तव प्रसादान्मोह परिन्जेयम् ।
हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।1।।
सीधारवेण वीणा सद् वादन प्रवीण
एकमादि दोषहीनं मन्मानसं विधेयम्
हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।2।।
शुक्लाम्बरावृतायाः मुक्ताल्लसच्छटायाः ।
स्वेताम्बु स्थितायाः रूपं तवाम्बु धेयम्
हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।3।।
अज्ञानता निशेयम् जाता समाधिचेतः
सद्ज्ञानदीप दानं सद्यस्त्वया विधेयम्
हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।4।।
सुरवृन्द वन्दितायाः कविभिश्चपूजितायाः
मात्तयशतवेदं “देवेन” किं न गेयम्
हे भारति ! त्वदीयं चरणं सदा भजेयम् ।।5।।
3.मातृभूमि वन्दना
हे धातृ! मातृभूमे! त्वां सादरं नमामः ।
सत्पाद पंकजं ते शिरसा सदा वहामः
हे धातृ! मातृभूमे! त्वां सादरं नमामः ।
रत्नांशु मण्डितोयं मुकुटं हिमालयस्ते
दिव्यं तवाम्बरूपं मनसा सदा स्मरामः
हे धातृ! मातृभूमे! त्वां सादरं नमामः ।
गंगा सिताम्बूपूरै रसितैः कलिन्द जायाः
प्रक्षालितं तवाङ्घिं सततं समचयि मः
हे धातृ! मातृभूमे! त्वां सादरं नमामः ।
शीतांसु रश्मिगौरं विमलं यशस्त्वदीयं
दिक्षु प्रसारयनतो विद्या वयं पठामः ।।
हे धातृ! मातृभूमे! त्वां सादरं नमामः ।
4.प्रार्थना
शक्तिः सा देया दयानिधे ! कर्तव्य पथे संस्थातब्यम् ।
परसेवा परहित साधनतः सफलम् स्वजन्म निर्मातव्यम् ।
शक्तिः सा देया दयानिधे !
वयमेषां दुर्बल दीनानां सेवातस्यापहरा स्यामः
ये तावदितस्तत आभ्रमन्ति दुखं तेषामपह वियम्
शक्तिः सा देया दयानिधे !
रिपवः कामादय इमे दयामय ! नश्चेलो व्यथयन्ति सदा ।
करुणातरंग ततिभिस्तेषामन्मूलनमाशु विधातब्यम्
शक्तिः सा देया दयानिधे !
निज देश जाति धयीदिषु सद् व्यथितं स्याज्जीवनमेतदलम् ।
करुणावरुणालय ज्ञान बलं विपुलं परमेश निधातब्यम् ।
शक्तिः सा देया दयानिधे !
सफलं करुणामय देवगवी समपामनमस्तृतमामचिरम्
सुन्दर षन्मन्तेवसतां सत्यम् शिवमीश विधातब्यम्
शक्तिः सा देया दयानिधे ! कर्तव्य पथे संस्थातब्यम् ।
5. स्वागत गानम्
समायाताः भवन्तस्तद् वयं वः स्वागतं कुर्मः
ततो भवतामुदाराणां वयं वः स्वागतं कुर्मः ।
यथायाते वसन्ते संन्लसन्ते पल्लवैस्तरवः
तथा प्रीतिर्निदानां वयं वः स्वागतम् कुर्मः
समायाताः भवन्तस्तद् वयं वः स्वागतं कुर्मः
सदा सम्पद् पदानामापदामुत्साद शीलानाम्
गुणाली सन्निधानानां वयं वः स्वागतं कुर्मः
समायाताः भवन्तस्तद् वयं वः स्वागतं कुर्मः
प्रचारो देव भाषायाः मतो एषां मते शश्वत्
सतामाशावितानानां वयं वः स्वागतम् कुर्मः ।
6.
अयि! भवत्सवागते स्वागतं जीवनम् यन्नवं तन्न वक्तुं गिरा शक्यते ।
या वसन्तागमे भुरुहामुन्नतिः सा कथञ्चिन्नवक्तुं गिरा शक्यते ।
अयि! भवत्सवागते..................
दर्शनादेव चन्द्रस्य चकोरकम् यां मुदं सम्बहत्यादृतं मानसे
सा समासादितागाध प्रज्ञाभरैरप्यहो नैव वक्तुं गिरा शक्यते ।
अयि! भवत्सवागते....................
यस्य पाथोज खण्ड मिलन्मीलनं चक्र वावश्च वाथामिनी निर्गमे ।
हर्ष वर्ष बहत्वा गतेऽहस्करे सोऽपि किं साधुवक्तुं गिराशक्यते ।
अयि! भवत्सवागते....................
शुभ्र वेल्लद् वलाकां घनश्यामलां मेघमालां विलोक्याशु केकारवैः ।
स्वागतं यन्मयूराः मुदा कुर्वते तत्कथञ्चिन्नवक्तुं गिरा शक्यते ।
अयि! भवत्सवागते...............
सद् गुणालंकृतैराप्त सम्मानितैः सद्यशोराशि पूरोल्लसद् सागरैः ।
या कृपाकारि विद्वद्वरैः साम्प्रतमं सा न “देवेन” वक्तुं गिरा शक्यते ।।
अयि! भवत्सवागते................
7.
प्राच्य विद्याविनीतः सुधी समतोयश्च पाश्चात्य भाषा समुद्भ सितः
यच्चरित्रं सदा स्यादनादीनवं तस्य ते स्वागतं स्वागतं स्वागतं ।।1
यश्च वाचाऽतिमाद्र सदालङ्कृतो यश्च लक्ष्म्या समालिङ्गितः सादरम् ।
गवलेशावहीन च यन्मानस तस्य ते स्वागतम् स्वागतम् स्वागतम् ।।2
यः सदा सप्रयाशः प्रजारंजने तत्परो यश्च दुष्टावली भञ्चने ।
यः स्वभावादहो सज्जनानन्दनः तस्ये ते स्वागतम् स्वागतम् स्वागतम् ।
यस्य सत्कर्म सम्पादने दक्षता पक्षता साधु वर्गे च संलक्ष्यते ।
अक्षतः यस्य कार्ये मतिः दृश्यते तस्य ते स्वागतं स्वागतं स्वागतं ।
प्रेम पूराञ्चितं यस्य सन्मानसं यस्य जीवानुकम्पा परा दृश्यते ।
यस्य लोकोपकारे रतिः सर्वदा तस्य ते स्वागतं स्वागतं स्वागतं ।
8.
वन्दनीय एष सर्व देहिनामये
स्वामिनं प्रभाविनं उदारमाश्रये ।1
यस्य चात्मनि प्रतिक्षणं मतीरता
योगतः समागतः प्रपञ्च पारता
देह सारता न यस्य योगिना नये
स्वामिनं प्रभाविनं उदारमाश्रये ।2
येन दर्शिता मिता स्वधर्मशीलता
शिक्षिता मुहुर्मुहुः स्वकर्मशीलता ।
शमशीलता मता च यत्तषश्चये
स्वामिनं प्रभाविनं उदारमाश्रये ।3
यः समागतस्य सःनतस्य भक्तितो
दुर्हृदो हिनस्ति तत्क्षणां स्वशक्तितः ।
कामक्रोध लोभ मोह मत्सरानये
स्वामिनं प्रभाविनं उदारमाश्रये ।4
वेदशास्त्र दर्शन स्फुर द्विलाशया
यस्य रागिता समन्नु देव भाषया ।
“देव” एष तंत्र सन्नता दयामये
स्वामिनं प्रभाविनं उदारमाश्रये ।1
9. काव्याली
यन्तपो भाभिराभी रसायास्तलम्
राजते राजता लङ्कृतम् सर्वतः
योगिभिः पूजितो योगिना यो गुरुः
योगिवय्ययि तस्मै नमः स्वामिने ।
यद्यशोराशिराशासु संचारतो
ध्वान्त मे कान्ततोऽस्तं नयन्तया ततं ।
पोषको यः सतामन्तकश्चासताम्
योगिवर्याय तस्मै नमः स्वामिने ।
यो जनानां भ्रमन्नेनसां सन्ततिम्
दूरयत्याशु संदशनेनात्मनः
वाचि यस्यामृत दृश्यते वस्तुता
योगिवर्याय तस्मै नमः स्वामिने ।
यो गतः पारमस्य प्रपञ्चात्मना
वस्तुतत्वम् विजानन्नथाप्यात्मनः
कर्मशीलश्च जीवोपकाराय यो
योगिवर्याय तस्मै नमः स्वामिने ।
देवभावामये यस्य विद्यालये
वेद वेदांग शिक्षा रसेल्लासिता
छात्रमाला विशाला चिरं राजते
योगिवर्याय तस्मै नमः स्वामिने ।।
10.
अये स्वामिन् ! अये स्वामिन् ! मतिः सा शोभना देया ।
दयातस्ते दयासिन्धो ! मया सद्भावना हेया ।।
अये स्वामिन् !........................1
यदा लोकेन लोकोऽयं सशंको जायते क्वापि ।
विशोके केवलै तस्मिन् कथंचित् कामना देया ।
अये स्वामिन् !........................2
अमी कामादयः कामं मनो मे पीडयन्नीव
तति तेषामितो मन्मानसादति दूरमपनेया ।
अये स्वामिन् !.......................3
न विद्या नो बलं भक्तिः न श्रद्धा व समीचीना
नवीना कीर्तिरनवद्या कथंकारं मया ज्ञेया ।।
अये स्वामिन् !.......................4
भवाकूपार मध्येपार पापाचार सं भारा
निमज्जन्ती तरिस्तावन्मदीया पारमानेया ।
अये स्वामिन् ! अये स्वामिन् ! मतिः सा शोभना देया ।
भज रे स्वामिचरणमभिरामम् ।
विकच कमलदल ललित मधुपगण- चुम्बन चरणविरामम् ।
भज रे ! स्वामिचरणमभिरामम् ।
जनरंजनमति मञ्जुलमभिमत-सन्दायिनम् निकामम् ।
भज रे ! स्वामिचरणमभिरामम् ।
अद्यदल दलन मरुण नख किरणै-राभासित मविरामम् ।
भज रे ! स्वामिचरणमभिरामम् ।
अशरण शरणम् भय मवितारम् देवगिरामविरामम् ।
भज रे ! स्वामिचरणमभिरामम् ।
11.
तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा ।
लतालास्य लीला लसन्मञ्जुशीला विलुप्त प्रमीला
गलल्ली भली स्वयं राजते भूत ले भव्य वेषा ।
तपो भूमिरेषा........................
सुमैराल्सद्भिः फलंरानमद्भिः ।
प्रियं वा ददद्भिः सुखं वा दधद्भिः ।
द्रुमैः कल्पवृक्षोपमं च्छन्नदेशा ।
तपो भूमिरेषा
जना ये श्रयन्ते सुखं ते लभन्ते ।
चिरन्ते रमन्ते न तापं सहन्ते ।
शुभा निर्मल देवभाषा विशेषा ।
तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा तपो भूमिरेषा ।
12.
वीरता शालिनो भारतीय अये ! देशसेवा
विधेया सदा सादरं
यत्र भीमादयो लेभिरे जन्मरे
यत्र कर्णादयो दानशीला अहो
तत्पथे विश्रुतेऽस्मिन भवद्भिर्मुदा
पादपंक्तिर्निधेया सदा सादरम् ।
वीरता शालिनो........................
यत्र राणाप्रतापः शिवाजी तथा
नीतवन्ता वलं यावनम् संक्षयम् ।
तस्य वीरद्वयस्याकृतिः शोभना
नो कथञ्चिद् विधेया सदा सादरम्
वीरता शालिनो...............................
देश स्वातंत्र्य संग्राम दन्तासवो
वीर वर्याश्च ये निर्भया संततम्
प्रेमपूता च तेषाम् कथा निर्मला
देवगीतेन गेया सदा सादरम्
वीरता शालिनो भारतीय अये ! देशसेवा
विधेया सदा सादरं
13.
देश हेतवे प्रियम् वरन्नु यौवनम्
वाञ्छितम् मनोरमं नवन्नु यौवनम्।
मातृभूमि रक्षणे भवन्तु सक्षणाः
शत्रु तक्षणा विलक्षणा विचक्षणा
अर्पयन्तु सादरम् स्वयन्नु यौवनम्
वाञ्छितम्.......................
शस्त्र सज्जिता रूषा दया विवर्जिता
स्तर्जितारयोश्वेण साधु वर्धिताः
भासयन्तु वीरता स्फुरत स्वयौवनम्
वञ्छितम्................................
द्रोह भावना मिथो विहाय सत्वर
दर्शयन्त पौरुष निजं विकस्वरम्
अर्जयन्तु निर्मलं यशस्च भौवनम्
वाञ्छितं.......
स्वर्ग सौरव्य दायिनी सदा सदादृतां
प्राण दानतोऽपि रक्षत स्वतंत्रताम्
देवगानतो विवर्धतान्नु यौवनम्
वाञ्छितम् मनोरमं नवन्नु यौवनम् ।
14
देश स्वातन्त्रय संग्राम दत्तासवो, माननीय इमे पूजनीया इमे ।
देश भक्ताः ससक्ताः प्रदत्तासवो, माननीया इमे पूजनीया इमे ।
ददशां मातृभूमेः समालोक्य ये सत्वरं तम्बरं यत्नमारेभिरे ।
वीक्ष्य येषां बलं कम्पते वासवो, माननीया इमे पूजनीया इमे ।
यच्चरित्रं पवित्रं धत्रीलीतले, गीयते यच्च सन्नन्दने कानने ।
सामरन्तीह तेषां न केशासवो, माननीया इमे पूजनीया इमे
बालकाः वथ वृद्धाः युवानस्तथा, सर्व एवा चरन्ति प्रणामं सदा
एष तेषां कृते वर्धतामुत्सवो, माननीया........................
15. काव्याली
दत्तवन्तो निजासून स्वदेशाय ये, वीर्यवर्या अलम् ते स्तुता वा न वा ।
निर्जितारातयाश्चान्त कश्यान्तकास्ते सगर्वम्, भवद्भिः स्मृता वा न वा ।
दत्तवन्तो...................
मातृभूमेः दृढां वन्धनीं श्रृंखलां मंक्तुकामा निकामं परार्थव्रताः ।
सयता वस्तुतो जीवने निस्पृहाः, सस्पृहा हन्त सम्पूजिता वा न वा ।
दत्तवन्तो...........
वीरता कामिनी रभ्य सीमन्तके, रक्त सिन्दूर दानोच्छलत् साहसाः
देश प्रेमातिरेकाल्लसन्मानसा, मानसे सन्ततम् स कृता वा न वा ।
दत्तवन्तो..........................................
मस्तकम् न्यास्य हस्ते हसन्तोऽनशम्, निर्भयम् यत्र तत्र भ्रमन्तः सदा ।
तापयन्तो मनः शास्त्रवम् भूतले कर्मणादेव यूयम् गता वा न वा ।
दत्तवन्तो.............................
परमहंस भव्या श्रमे पावने, निर्मिता धेव भाषानि बाद्धाऽमला ।
देवगीतिर्नवा तद्यशो वर्धिनी, सादरम् शक्तिसारा श्रुता वा न वा ।
दत्तवन्तो निजासून्...................................................
काव्याली
दर्शिता साम्प्रतम् यादृशः सद्दया, यादृशीमेव सद्भ्यो मुहुः कामये
छात्र वर्गेनुकम्पा कृता यादृशी तां भवद्भो मुहुः कामये
दर्शिता साम्प्रतम्......................
वागियम् बालकानां भृशं नीरसा, सापि विद्वद्बरैः सादरं स्वीकृता
स्वीकृता स्यात् पुनः प्रस्तुतः चेद् भवेदत्र ध्यानं ददभ्यो मुहः कामये ।
दर्शिता साम्प्रतम्......................
प्रेम वल्ली हृदाराम संवर्धिता, तत्प्रसूनैः रसल्लासिता गुम्फिता ।
तामजस्रम स्रजम् स्नेह संवर्धिनी, कण्ठदेशे दधद्भ्यां मुहुः कामये ।
दर्शिता साम्प्रतम्
श्रीमतां दशनाद्धर्षवर्षोंऽभवत्, कार्य सिद्धिः समासादिता वस्तुतः ।
आशिषः सन्तु भूयोऽपि शुद्धात्मनाम्, देवभाषा लसद्भ्या मुहुः कामये ।
दर्शिता साम्प्रतम्...........................
गारी राग
अति सरला संस्कृत भाषा त्वया पठनीया अरे!
अति मधुरा संस्कृत भाषा त्वया वदनीया अरे ।
कालिदास कवि भासप्रसूतिः उल्लासित भारविर्भवभूतिः ।
इयमेषा त्वयादरणीया दरणीया अरे ! अति सरला संस्कृत
परमहंस कृपया गतमीलम् विद्यालय इह चलति सलीलम्
तस्य कीर्तिस्त्वया कथनीया अरे ! अति सरला संस्कृत..
गुरुजन वृन्द शुभा सन्देशा (नाम यथेच्छं संयोजनीयम्)
त्वया कण्ठस्थीकरणीया करणीया अरे ! अति सरला संस्कृत भाषा..
देव कवेरिदमुत्तम गानं श्रुत्वा कुरु कविता रस पानम्
लभ्या कीर्तिस्त्वया कमनीय कमनीय अरे । अति सरला संस्कृत
गारी राग
कथमेषा त्वया नाधीता नाधीता अरे !
प्राचीना अति संस्कृत भाषा रुचिरा सरला सुपुनीता
परमहंस संस्कृत विद्यालय कीर्ति रियम् अति स्फीता अति स्फीता अरे !
कथमेषा.................................
कालिदास कवि मधुरा कविता किमिव त्वया नो पीता नो पीता अरे
कथमेषा.
परमहंस परवा कृपयारे सश्रममद्योन्नीता उन्नीता अरे
कथमेषा..............
देवकवेरति सरसागीतिः मया मधुरा मधुरा गीता अरे गीता अरे
कथमेषा त्वया ना धीता ना धीता अरे ।
गारी राग
पठ पठ सज्जन संस्कृत भाषां रे, रचिरामयो सुकुमारां सीतारामौ भज ।
निगमागम पुराण परिपीनाँ रे, स्मृतिकृत विविधविचारां सीतारामौ भज ।
पठ पठ सज्जन....
मसृण मृदुल मञ्जुल मधु वहनी रे विधृत सुधारस धारां सीतारामौ भज ।
पठ पठ सज्जन......
त्वँ पठ वत पत्नीमपि पाठय रे
त्वम् पठ वत भगिनीमपि पाठय रे
कुरु जगतीं सुख सारां ,सीतारामौ भज....................................
पठ पठ सज्जन......
देव कवेरमृतोपम गानं गाय गाय कुरु सुप्राचाराँ सीतारामौ भज ।
पठ पठ सज्जन.......................
परमहंस परया कृपा रे (नाम यथेच्छ योजनीयम्) कुरु कुरु बहुल प्रसारां सीतारामौ भज ।
पठ पठ सज्जन..................................
गारी राग
पठसि पठसि किमसारामन्यां भाषाँ रे ।
पठसि न संस्कृत भाषामुत्तमासा रे...................
वेद पुराण विवसंदति हाँसा रे ,
गीतासमानीतामित रुचिर प्रकाशा रे.....
पठसि पठसि........................
कालिदास भास कवि विविध विलासा रे
पठसि पठसि..............................
देव रचित नूतन गीति परिभाषा रे
गाते जयदेव राम कलित सुहासा रे ।
पठसि पठसि .......................
गारी राग
लगति न मम मन इतरासु भाषासु,
संस्कृत भाषाँ प्रति याति रे ललनाः
भाषायाम स्यामधिक रस कविता रे
रुचिततमा सा प्रति भाति रे ललना
लगति न मम.....................
श्री परमहंस चरणरजः कृपया रे
रुचिर प्रसारा सा विभाति रे ललनाः
लगति न मम्
भामिनि यदि कलयसि सुरभाषा रे
तवमुख सुषमानमाति रे ललना
लगति
देव कवेरियम् लौकिक गीती रे,
सरला ललिता सरसाति रे ललनाः
लगति न मन मम मनः..................................
गारी राग
अतिशय भाग्यमहो तव मानव यदिह पठसि सुरभाषां सखे जीव
ब्रजति पठति यस्तु सासुः ससुरतां यो न पठति ससुरारिः सखी जीव
अनुया प्रसीदति त्वयि असुरारिः जनो विदधाति यदाशां सखे जीव
श्रीपरमहंस चरणरज कृपया रे भुविकृत रुचिर विकासां गुरुजन
वृन्द परम कृपया रे भुवि कृत
देव कवेरिमांमुत्तम गीतिं रे पठ परिकलित सुहासां सखे जीव
अतिशय भाग्यमहो
गारी राग
जनता सुख शान्ति निधाना वन्दनीयेन्दिरा
गुणग्रामाञ्चिता चासमाना वन्दनीयेन्दिरा
राजनीनि निपुणाः मतिधीरा देशकालकलना गम्भीरा
कुत विद्वज्जन सम्माना वन्दनीयेन्दिरा
चरणीवाछपयति प्रतिपक्षं मामेवायति या निजपक्षम्
देशोन्नयने सावधाना वन्दनीयेन्दिरा
मध्यस्था स्वस्था गतिशीला, शक्तित्रय संचय गत मीला
अहो विहितारति विमाना वन्दनीयेन्दिरा
देवकवी रचयति मृदुगीतिम् अधिजनमान समाहित प्रीतिं
इयमातत कीर्तिविताना वन्दनीयेन्दिरा ।
गारी राग
काशीतः जडिता आयातः काशीतः ।
रामदत्तानुजायाः अग्रम् जडति पृष्ठन् जडति
मदनि जडति वत्तासातः काशीतः ।
काशीतः जडिता0...............................1 ।
रामदत्त मातुः अग्रय जडति पृष्ठम् जडति । 2 ।
मदनी जडति वतासीत काशीतः
......................................
काशीतः...........................
यज्ञदत्त पितृस्वसुः अग्रम् जडति पृष्ठम् जडति.....
वराङ्गम् जडति वतासातः काशीतः ।
काशीतः..............................2
यज्ञदत्त पितृस्वसुः अग्रम जडति ........
.........................................
काशीतः जडिता आयात काशीतः ।
गारी राग
अत्राश्रमे पाठशाला रे मित्र चल संस्कृत भाषा प्रचारे चल ।
अस्या भवनावली विशाला रे मित्र चल संस्कृत भाषा प्रचारे चल ।
इहाध्यक्षा अमेठी भूपाला रे मित्र0...............................।
इहा रुचिरा यज्ञशाला रे मित्र.............................................।
इहा महती गोशाला रे मित्र.............................................।
इह वनराजि सतमाला रे मित्र.............................................।
इह सन्तः धर्मपाला रे मित्र.................................................।
इह मुनयो घृतमाला रे मित्र................................................।
इयं देव कवेः गीती रसाला रे मित्र चल संस्कृत भाषा प्रचारे चल ।
कहरवा राग
लोके एष दर्शनीयः परमहंस – आश्रमः ।
राज्यामेठी मध्यगतोsयम् टीकरमाफी ग्रामः
ब्राह्मण क्षत्रिय वैश्य जनानामपिववासैरभिरामः
तस्य नातिदूरवर्ती पूजनीय आश्रमः
लोक एष दर्शनीय........................................।
परमहंस चरणाति करुणया त्रैका संस्कृतशाला
चलति यत्र छात्राणामवली रम्या लसति विशाला
देव भाषा विज्जनाभिनन्दनीयआश्रमः
लोके एष.........................................................................।
फाल्गुनशुक्ल त्रयोदश्यामिह महायज्ञ सम्भारः
यतः सनातन धर्मि जनानां नित्यं सुख संचारः ।
कर्मयोगिवर्य्यवृन्द वन्दनीय आश्रमः ।
लोके एष दर्शनीय
देवकवी रचयति अति गीतम् लौकिक महो विशुद्धम्
श्री जयदेव त्रिपाठी गायति मधुरम् सुस्वर विद्धम्
भावविद्भिर्बुद्धिमश्रि वर्णनीय आश्रमः ।
लोके एष दर्शनीय
लोके एष दर्शनीयः सच्चा बाबा – आश्रमः ।
एकत एति सिताम्बुपूरिता जह्नुसुता गतमीलम्
कलिन्दजा चान्यति इति जातः संगम एव सलीलम्
तस्य नातिदूरवर्ती पूजनीय आश्रमः
लोक एष दर्शनीय........................................।
सच्चा बाबा परम करुणया त्रैका संस्कृतशाला
चलति यत्र छात्राणामवली रम्या लसति विशाला
देव भाषा विज्जनाभिनन्दनीयआश्रमः
लोके एष.........................................................................।
विद्वद्वृन्द परम कृपयात्रात्यन्तं इषिं विहीनः
संस्कृत युवक समारोः प्रतिवर्ष भवति नवीनः
कर्मयोगिवर्य्यवृन्द वन्दनीय आश्रमः ।
लोके एष दर्शनीय
देवकवी रचयति अति गीतम् लौकिक महो विशुद्धम्
श्री जयदेव त्रिपाठी गायति मधुरम् सुस्वर विद्धम्
भावविद्भिर्बुद्धिमश्रि वर्णनीय आश्रमः ।
लोके एष दर्शनीय..............
काममेषा किं नाधीता संस्कृत भाषा बान्धवाः
यत्र श्रुति मान्वादि स्मृतिं शास्त्राणां विविध वितानम्
ज्योति कर्मकाण्ड दर्शन विद्यानाममित निधानम्
यस्यामस्या प्रसिद्धां भगवद्गीता बान्धवाः
काम मेषा किं.
परमहंस संस्कृत विद्यालय इह किलविल सत्येषः
ब्राह्मण क्षत्रिय वैश्य शूद्र यवनानामपि प्रवेशः
किं भवद्भिवलिका न समानोता वान्धवाः
काम मेषा किं......
बाण मयूर दण्डि विनिद्धम् यत्राद्भुत विज्ञानम्
जयदेव श्रीहर्ष कवित्वं विश्वस्मिन्न समानम्
कालिदास मास कविता किं न पीता बान्धवाः ।
काम मेषा किं
देव कवी रचयति मृदुगीतम् लौकिक महो विशुद्धम्
श्री जयदेव त्रिपाठी गायति ललितम् सुस्वर बद्धम्
अश्रुत पूर्वा सैषा गीतिः किं न गीता बान्धवाः
काम मेषा किं न गी
कहरवा राग
एक एव केवलम् स हे मनस्तवाश्रयः
भ्रमसीतस्तत आशाग्रस्तं भव जलनिधि दुस्तारे
माया रचिते रमसे व्यर्थ नश्वर निज परिवारे
सेवनीय एष सर्वदा विभु निराश्रयः
एक एव
काञ्चन वनिता वाप्ति समीहा न हि शाम्यति संसारे
यावज्जीवं भवसि निगडितम् विकटे मोहागारे
नैन ध्याता किं कदाप्यहो सवै सदाश्रयः
एक एव
गायन्ति श्रुतयः स्मृतयस्तम् उशनिषदप्याख्याति
सेवा विरतम् योगि जनानाम् अधिमानसमाभाति
नैव वस्तुतस्ततोमता सखे सुखाश्रया
एक एव
देवकवी रचयति मृदुगीतम् लौकिक महोविशुद्धम्
श्री जयदेव त्रिपाठी गायति मधुरम् सुस्वर वद्धम्
सर्व एष स्थूलं सूक्ष्म संचयो यदाश्रया
एक एव
रुचिरा नभति पयोधर माला रचति विशाला रे हरे
गर्जति चलति घनाघन माला
वलति वलाकवली रसाला
अनुपलमेधत ए, मनसि मनोभव ज्वाला रे हरे
रुचिरा नभति पयोधर
दिशि-दिशि कल कोकिल कुल गानम्
मधुरं भवति मयूरध्वानम्
चपला मानस कम्पन शीला स्फुरति कराला रे हरे
रुचिरा नभति पयोधर...................................
शीतल मन्द सुगन्ध समीरः
वाति वियोगी भवति अधीरः
केकी नृत्यति कानन भूमिः
कलित तमाला रे हरे...................................
रुचिर नभसि
देव कवेरति मञ्जुल गानम्
बुधजन मानस हर्ष निधानम्
अरे त्वया किमिति न भामिनि रसिता
कविता हाला रे हरे
रुचिरा नभसि पयोधर माला लसति विशाला रे हरे
कजली
भ्रातस्यत्वम् पठ संस्कृत भाषाम् आसां भाषाणां जननी
हिन्दी उर्दू अरबी पाश्तो आँग्ल फ्रेंच जर्मनी
शस्तो मलयालम कन्नड़ तेलगू गत मूल शब्द ध्वनिनीम्
भ्रातस्यत्वम् पठ………..
वेद पुराण स्मृति परिधानां रामायण गीता सुनिधानां
विविधोपनिषल्लस दुवदेशैः शोक मोह शमनीं ।
भ्रातस्यत्वम् पठ..................
कालिदास कवि भास प्रसूतिं उत्पादित भारवि भवभूतिम्
वाण मयूर हर्ष बुध तल्लज दण्डि प्रसविनीं
भ्रातस्यत्वम् पठ................
देवकवेदरिमुत्तमगानम् कलव मधुर कविता रसपानम्
सपदि सकलमवनीतलमातनु सुबनीं माघवनीं ।
भ्रातस्यत्वम् पठ..
राग चौताल
यायि जमुना जलाय नवीना मदन मद पीना
बेलवरिया
शिवममुष्य तनोतु दिने-दिने
गजमुखः सुमुखः ससुतो रविर्द्विजपतिश्च कुजश्च बुधोगुरुः
भृगुज केतु मुतश्च विधुन्तुदः शिवममुष्य तनोतु दिने-दिने
कमल कोश गतश्च बृषासनः पतग पृष्ठ गतश्च गजासनः
सुरयुतः सुहुतश्च हुतासनः शिवममुष्य तनोतु दिने-दिने
जलधिजा गिरिजा वृषभानुजा धरणिमखजा च पुलोमजा
सरसिजासन जापि च भीम जा शिवममुष्य तनोतु दिने-दिने
विधिसुतः सवगाधिसुतः शुकः कलश्जश्च भृगुश्च सजैभिनी
गुरु वशिष्ठ युतश्च भागीरथो यदुरथो नहुषश्च वृहद्रथः
सगुरु सानुज पार्थ महारथः शिवममुष्य तनोतु दिने-दिने
सुरनदी यमुना च सरस्वती शुभजला सरयू च शशिप्रभा
ललित में कलजा च कोशला शिवममुष्य तनोतु दिने-दिने
शिवपुरी मथुरा मिथिला गया वदरिका विदिशाप्यथ कौशिका
हरिपुरी निमिषापि च कोशला शिवममुष्य तनोतु दिने-दिने
सबलमंगल दायकमष्टवम विरचितं द्विजदेव मनीषिणा
पठति अस्तु श्रृणोति समाहितः सलसतीह चिरं शुभ सम्पदा
Comments
Post a Comment