हेमाद्रि संकल्प
हेमाद्रि संकल्प हेमाद्रि संकल्प ॐ स्वस्तिश्रीसमस्त जगदुत्पत्ति स्थिति लयकारणस्य रक्षा-शिक्षा-विचक्षणस्य प्रणत पारिजातस्य अशेषपराक्रमस्य श्रीमदनन्तवीर्यस्यादि नारायणस्य अचिन्त्यापरिमितशक्त्या घ्रियमाणानां महाजलौध मध्ये परिभ्रताम् अनेक कोटि ब्रह्मांडानामेकतमेव्यक्तमहदंकार पृथिव्यप्तेजो वायु-आकाशाद्या वरणैरावृते अस्मिन् महति ब्रह्मांण्ड खण्डे आधार शक्ति श्री मदादिवाराह दंष्ट्राग्र विराजिते कूर्मानन्त वासुकि-तक्षक-कुलिक-करकोटक-पद्म-महापद्म-शंखाद्यष्ट-महानागैर्ध्रियमाणे ऐरावत-पुण्डरीक-वामन-कुमुदाञ्जन-पुष्पदन्त-सार्वभौम सुप्रतीकाष्ट दिग्गजो परिप्रतिष्ठितानां अतल-वितल-सुतल-तलातल-रसातल-महातल-पाताल लोकानां उपरिभागे भूर्लोक-भुवर्लोक-स्वर्लोक-महर्लोक-जनलोक-तपोलोक सत्यलोकाख्य सप्तलोकानां अधोभागे चक्रवाल शैल महावलय नाग मध्यवर्तिनो महाकाल महाफणिराज शेषस्य सहस्त्र फणामणि मण्डल मण्डिते दिग्दन्ति शुण्डादण्डो दण्डिते अमरावती शोकवती भोगवती सिद्धवती गान्धर्ववती काञ्ची अवन्तिकावती यशोवतीति पुण्य पुरी प्रतिष्ठिते लोका लोकाचल वलयिते लवणेक्षु सुरा सर्पिर् दधि क्षीरोदकार्णव परिवृते जम्बू प्लक्ष कुश क्रौञ्चशाकश...