पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक . कुमारसम्भवम्- प्रथमसर्ग अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ।। १. १ ।। यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।। १. २ ।। अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।। १. ३ ।। यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शीखरैबिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ।। १.४ ।। आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ।। १. ५ ।। पदं तुषारस्त्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ।। १. ६ ।। न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ।। १. ७ ।। यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन। उद्गास्यतामिच्छति किंनराणां तानप्रदायित्व...
Comments
Post a Comment